|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.80. अध्यायः 080
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति वैवाहिकविध्यादेर्दायार्हतादेश्च कथनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच
कन्यायां प्राप्तशुल्कायां पतिश्चेन्नास्ति कश्चन।
तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह॥ 13-80-1(84622)
भीष्म उवाच। 13-80-2x(7028)
या पुत्रकस्य ऋद्धस्य प्रतिपाल्या तदा भवेत्।
अथवा सा हरेच्छुल्कं क्रीता शुल्कप्रदस्य सा॥ 13-80-2(84623)
तस्यार्थेऽपत्यमीहेव येन न्यायेन शक्नुयात्।
न तस्मान्मन्त्रवत्कार्यं कश्चित्कुर्वीत किञ्चन॥ 13-80-3(84624)
स्वयंवृतेन साज्ञप्ता पित्रा वै प्रत्यपद्यत।
तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः॥ 13-80-4(84625)
एतत्तु नापरे चक्रुरपरे जातु साधवः।
साधूनां पुनराचारो गरीयान्धर्मलक्षणः॥ 13-80-5(84626)
अस्मिन्नेव प्रकारे तुसुक्रतुर्वाक्यमब्रवीत्।
नप्ता विदेहराजस्य जनकस्य महात्मनः॥ 13-80-6(84627)
असदाचरिते मार्गे कथं स्यादनुकीर्तनम्।
अनुप्रश्नः संशयो वा सतामेवमुपालभेत्॥ 13-80-7(84628)
असदेव हि धर्मस्य प्रदानं धर्म आसुरः।
नानुशुश्रुम जात्वेनामिमां पूर्वेषु कर्मसु॥ 13-80-8(84629)
भार्यापत्योर्हि सम्बन्धः स्त्रीपुंसोस्तुल्य एव तु।
रतिः साधारणो धर्म इति चाह स पार्थिवः॥ 13-80-9(84630)
युधिष्ठिर उवाच। 13-80-10x(7029)
अथ केन प्रमाणेन पुंसामादीयते धनम्।
पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति॥ 13-80-10(84631)
भीष्म उवाच। 13-80-11x(7030)
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा।
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत्॥ 13-80-11(84632)
मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः।
दौहित्र एव तद्रिक्थमपुत्रस्य पितुर्हरेत्॥ 13-80-12(84633)
ददाति हि स पिण्डान्वै पितुर्मातामहस्य च।
पुत्रदौहित्रयोरेव विशेषो नास्ति धर्मतः॥ 13-80-13(84634)
अन्यत्र जामया सार्धं प्रजानां पुत्र ईहते।
दुहिताऽन्यत्र जातेन पुत्रेणापि विशिष्यते॥ 13-80-14(84635)
दौहित्रकेण धर्मेण तत्र पश्यामि कारणम्।
विक्रीतासु हि ये पुत्रा भवन्ति पितुरेव ते॥ 13-80-15(84636)
असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः।
आसुरादधिसम्भूता धर्माद्विषमवृत्तयः॥ 13-80-16(84637)
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः।
धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु॥ 13-80-17(84638)
यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति।
कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति॥ 13-80-18(84639)
सप्तावरे महाघोरे निरये कालसाह्वये।
स्वेदं मूत्रं पुरीषं च तस्मिन्मूढः समश्नुते॥ 13-80-19(84640)
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत्।
अल्पो वा बहु वा राजन्विक्रयस्तावदेव सः॥ 13-80-20(84641)
यद्यप्याचरितः कैश्चिन्नैष धर्मः सनातनः।
अन्येषामपि दृश्यन्ते लोभतः सम्प्रवृत्तयः॥ 13-80-21(84642)
वश्यां कुमारीं बलतो ये तां समुपभुञ्जते।
एते पापस्य कर्तारस्तमस्यन्धे च शेरते॥ 13-80-22(84643)
अन्योप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः।
अधर्ममूलैर्हि धनैस्तैर्न धर्मोऽथ कश्चन॥ ॥ 13-80-23(84644)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अशीतितमोऽध्यायः॥ 80॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-80-1 शुल्कदश्चेत्प्रोषितस्तद्भयादन्यश्च न वृणुते तदा तत्पित्रा किं कर्तव्यमिति प्रश्नार्थः॥ 7-80-2 या कन्याः पितुः प्रतिपाल्या पिता च यदि तत् शुल्कं परपक्षीयेभ्यः परावृत्य न दद्यात्तर्हि सा कन्या शुल्कप्रदस्यैव ज्ञेया॥ 7-80-4 स्वयंवृतेति सावित्रीति धर्मज्ञानपरा जना इति च.ध.पाठः॥ 7-80-8 धर्मस्य स्इत्रीणामस्वातन्त्र्यलक्षणस्य धर्मस्य प्रदानं खण्डनं यत्स आसुरो धर्मः एतां पद्धतिम्। पूर्वेषु वृद्धेषु। कर्मसु विवाहेषु। जात्वेव तदिदं पूर्वजन्म्सविति ध.पाठः॥ 7-80-14 जामया कन्ययापि तामपेक्ष्येत्यर्थः। अन्यत्र जायते सोपि प्रजया पुत्र ईयते इति ट.थ.ध.पाठः॥ 7-80-19 कालसाह्नये कालसूत्राख्ये॥ 7-80-22 बलतो वश्यां नतु स्वच्छन्दत इत्यर्थः॥ 7-80-23 अन्योपि पशुरपि॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|